वाचस्पत्यम्
मासान्त || पु० मासस्य सौरस्य चान्द्रस्य वाऽन्तः अबमानम् मासावसाने संक्रान्त्यादौ ।
शब्दकल्पद्रुमः
मासान्तः || पुं, (मासस्यान्तः ।)
अमावस्या । यथा, — ‘पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम् । इति समयप्रदीपः ॥ संक्रान्तिदिनम् । यथा, —
“मासान्ते म्रियते कन्या तिथ्यन्ते स्यादपुत्त्रिणी । नक्षत्रान्ते च वैधव्यं विष्ट्यां मृत्युर्द्वयोर्भवेत् ॥ मासान्ते दिनमेकन्तु तिथ्यन्ते घटिकाद्वयम् । घटिकात्रितयं भान्ते विवाहे परिवर्जयेत् ॥” इति रत्नमाला ॥