संस्कृत-शब्दकोशः

मांसाष्टका मांसिनी

मासिक

वाचस्पत्यम्

मासिक ||‍ त्रि० मासे भवः कालाट्टञ् । १ मासभवे प्रेतो- द्देशेन मृतसञ्जातीयतिथौ, पतिमासम् अमावस्यायां च कर्त्तव्ये २ श्रा न० । “मासि मासि स्वकीये तु” स्मृतिः । “पितॄणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुध ।” स्मृतिः ।


शब्दकल्पद्रुमः

मासिकं || क्ली (मासे भवम् । मास + “कालाट् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।)
प्रेतस्य संवत्सराभ्यन्तरे प्रतिमासीयमृतसजातीयतिथि कर्त्तव्यश्राद्धम् । प्रतिमासकर्त्तव्यकृष्णपक्षनिमित्तक श्राद्धम् । तत्पर्य्यायः । अन्वाहार्य्यम् २ । इत्य- मरः । ३ । ७ । ३१ ॥ मासि भवं मासिकं पार्व्वणश्राद्धं तत्र अन्वाहार्य्यं वर्त्तते । पक्षशेषे अमावास्यायां देयत्वात् । अनु पश्चादाह्नियते अन्वाहार्य्यं हसृय्वासोरिति घ्यण् स्वार्थेके अन्वा- हार्य्यकञ्च । अकृतसपिण्डीकरणस्य वत्सराभ्य- न्तरे प्रतिमासं यत् श्राद्धं तत्रान्वाहार्य्यमिति केचित् । इत्यमरटीकायां भरतः ॥ तयोः प्रमाणम् । “षाण्मासिकाब्दिके श्राद्धे स्यातां पूर्ब्बेद्युरेव ते । मासिकानि स्वकीये तु दिवसे द्वादशापि च ॥” इति पैठीनसिः ॥ ‘पितॄणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः । तच्चामिषेण कर्त्तव्यं प्रशस्तेन प्रयत्नतः ॥’ इति मनुः । ३ । १२३ ॥ * ॥
मासिककरणस्य व्यवस्था यथा । पीठच्छत्रो- पानहरहितानि इहलोकं परित्यज्य इत्यादि सर्व्वः सुर्गन्ध इत्यादि श्रिया देव्या इत्यादि वन- स्पतिरस इत्यादिमन्त्रचतुष्टयरहितानि च आद्यै- कोद्दिष्टवत् मृताहे मृताहे द्वादश मासिकानि कार्य्याणि । एकादशमासाभ्यन्तरे मलमासपाते त्रयोदशमासिकानि । षष्ठमासाभ्यन्तरे मल- मासपातेऽपि षष्ठमासिकपूर्ब्बतिथावेव प्रथम- षाण्मासिकम् । तथा त्रयोदशमासिकस्य पूर्ब्ब- तिथौ द्वितीयषाण्मासिकम् । एवं षाण्मासिकी- ल्लखे प्रथमषाण्मासिकद्बितीयषाण्मासिकत्वेनो- ल्लेखः । एषां मध्ये यत् पतितं तत् कृष्णैकादश्यां अमावस्यायां मासिकान्तरतिथौ वा कृत्वा प्रकृतं कर्त्तव्यम् । अशौचपतितञ्चेत्तदशौचान्ते कर्त्तव्यम् । एकादशाहादिश्राद्धानि कतिचित् कृत्वा यदि मृतस्तदा शेषाण्यन्येनाधिकारिणा समाप्यानि ॥ * ॥
अथ मासिकैकोद्दिष्टश्राद्ध- प्रयोगः । पूर्ब्बदिने निरामिषैकभक्तः परदिने स्नानादिकं कृत्वा एकोद्दिष्टश्राद्धविहितकाले भोज्यमुतसृज्य कुशब्राह्मणं स्नापयित्वा वास्तु- पुरुषादि पूजयित्वा भूम्वामिपितृभ्यः श्राद्धाग्र- भागं दत्त्वा दक्षिणामुखः अनुज्ञां कुर्य्यात् । यथा अद्यामुके मासि अमुकपक्षे अमुकतिथौ अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्म्मणः प्रथम- मासिकैकोद्दिष्टश्राद्धं दर्भमयब्राह्मणेऽहं करिष्ये । ॐ कुरुष्वेत्युत्तरम् । ततो गायत्त्रीं जपेत् । देवताभ्य इत्यादि त्रिधा पठेत् । ततः पुण्डरी- काक्षं स्मृत्वा मृज्जलेन श्राद्धीयद्रव्यं प्रोक्षयेत् । रक्षार्थमुदकपूर्णपात्रमेकदेशे स्थापयेत् । ततः ॐ अमुकगात्र प्रेत अमुकदेवशर्म्मन्नेतत्ते दर्भासनं स्वधा । इत्यनेन ब्राह्मणवामपार्श्वे दद्यात् । अपहतेत्यादिना तिलान् विकीर्य्य जलं स्पृष्ट्वा ब्राह्मणाग्रभूमौ कुशपत्रमेकं पातयित्वा तदुपरि अर्घ्यपात्रं संस्थाप्य ॐ पवित्रासि वैष्णवीत्यनेनानखच्छिन्नं ॐ विष्णोर्मनसा पूत- मसीत्यनेन प्रोक्षितमेकदलं पवित्रं तत्पात्रे निधाय ॐ शन्नोदेवीरित्यादिमन्त्रेण जलं दद्यात् । ततः ॐ तिलोऽसि सोमदैवत्यो गोसवो देवनिर्म्मितः । प्रन्नमद्भिः पृक्तः स्वधया प्रेतान् लोकान् प्रीणाहि नः स्वाहा । इत्यनेन तिलान् दत्त्वा गन्धपुष्पादिना अर्घ्यं निर्म्माय कुशा- न्तरेणाच्छाद्य तत् कुशमुद्घाट्य ब्राह्मणे पवित्रं दत्त्वा जलान्तरञ्च दत्त्वा पुष्पान्तरेण शिरः- प्रभृतिसर्व्वगात्रेभ्यो नम इति संपूज्य तत् पात्रं वामहस्ततले विन्यस्य दक्षिणहस्तेनाच्छाद्य ॐ या दिव्या इति पठित्वा ॐ अमुकगोत्र प्रेतामुकदेवशर्म्मन्नेतत्तेऽर्घ्यं स्वधा । ततः ॐ अमुकगोत्र प्रेतामुकदेवशर्म्मन्नेतानि ते गन्ध- पुष्पधूपदीपाच्छादनानि स्वधा । इत्युत्सृज्य एष ते गन्धः एतत्ते पुष्पं एष ते धूप एष ते दीपः एतत्ते आच्छादनम् । ततो ब्राह्मणाग्रभूमौ कुशादिकमपनीय नैरृतिमारभ्य दक्षिणा- ग्रान्तरेखया वामावर्त्तेन जलेन चतुष्कोण- मण्डलं कृत्वा तत्र भोजनपात्रं निदध्यात् । तत्र सामिषं सर्व्वमन्नादिकं परिवेश्य ॐ इदं विष्णुरित्यादिमन्त्रेण अन्नादावनखाङ्गुष्ठं निक्षिप्य ॐ अपहतेत्यादिना तिलान् विकीर्य्य ब्राह्मणे जलगण्डूषं दत्त्वा गायत्त्रीं जप्त्वा अन्ने मधु दत्त्वा तदभावे गुडं दत्त्वा घृतं दत्त्वा ॐ मधुवाते- त्यादि मधु मधु मध्विति च पठित्वा अन्नमभि- मन्त्र्य प्रोक्ष्य ब्राह्मणे जलगण्डूषं दत्त्वा वाम हस्तेनान्नपात्रं धृत्वा ॐ अमुकगोत्र प्रेतामुक- देवशर्म्मन्नेतत्ते सामिषान्नं सोपकरणं स्वथेत्युत्- सृजेत् । इदं सामिषान्नं इदं हविः इमा गङ्गाया आपः एतान्युपकरणानि यथासुखं वाग्यतः सद । इत्यनेन जलगण्डूषं दद्यात् । ततो गायत्त्रीं त्रिः सकृद्वा ॐ मधुवाता इत्यादि मधु मधु मध्विति ॐ अन्नहीनमित्यादि च पठेत् । कुश- ब्राह्मणपक्षे पुनर्गायत्त्र्यादि पठेत् । ॐ यज्ञे- श्वरो हव्य इत्यादि ॐ योगीश्वरमित्यादि याज्ञ- वल्क्यश्लोकत्रयं ॐ तद्बिष्णोरित्यादि ॐ दुर्य्यो- धन इत्यादि ॐ युधिष्ठिर इत्यादि सर्व्वं पठेत् । ततो दक्षिणाग्रान् कुशान् भूमौ संस्थाप्य भूमिं प्रोक्ष्य सर्व्वप्रकारमन्नमुद्धृत्य सतिलमेकीकृत्य वारिणाप्लुत्य ॐ अग्निदग्धाश्चेत्यादिमन्त्रद्वयेन कुशोपरि विकिरेत् । ततो हस्तौ प्रक्षाल्याचम्य दक्षिणकर्णं स्पृष्ट्वा वा हरिं स्मृत्वा ब्राह्मणाय जलगण्डूषं दत्त्वा पूर्ब्बवद्गायत्त्रीं मधुवाता इत्या- दिकं मधु मधु मध्विति च जप्त्वा ॐ शेषमन्नं क्व देयमित्यनुज्ञाप्य ॐ इष्टाय दीयतामित्युत्तरं गृहीत्वा ॐ पिण्डदानमहं करिष्ये ॐ कुरुष्वे- त्युक्ते ब्राह्मणसम्मुखे ॐ निहन्मीत्यादिना नैरृतिमारभ्य दक्षिणाग्ररेखया जलेन वामा- वर्त्तेन चतुष्कोणमण्डलं कृत्वा पवित्रं वामहस्ता- द्दक्षिणहस्तेन गृहीत्वा वामहस्तान्वारब्ध- दक्षिणपाणिना दक्षिणाग्रां रेखां मण्डलमध्य- स्थाने ॐ अपहतेत्यादिनिहन्मीत्यादिमन्त्राभ्यां कुर्य्यात् । तद्दर्भमुत्तरस्यां दिशि क्षिपेत् । रेखोपरि समूलान् साग्रान् कुशानास्तीर्य्य ॐ देवताभ्य इति पठित्वा ॐ एहि प्रेत सौम्य गम्भीरेभिः पथिभिः पूर्ब्बिणेभिर्देह्यस्मभ्यं द्रवि- णेह भद्रं रयिञ्चनः सर्व्ववीरं नियच्छ इत्या- वाह्य तिलांश्चास्तीर्णकुशेषु विकिरेत् । ततो वामहस्तेन सतिलजलं गृहीत्वा वामहस्ता- द्दक्षिणहस्तेन संगृह्य ॐ अमुकगोत्र प्रेतामुक- देवशर्म्मन्नवने निक्ष्व स्वधा इत्यनेन दद्यात् ततः श्राद्धशेषमन्नं सव्यञ्जनं मध्वाज्यतिलसंयुक्तं सामिषं गृहीत्वा पिण्डं कृत्वा ॐ मधुवातेत्यादि ऋक्त्रयं अक्षन्नमीत्यादि च पठित्वा विल्व- प्रमाणं पिण्डं सतिलं द्विगुणभुग्नकुशत्रयसहितं वामहस्तस्थितपात्राद्दक्षिणहस्तेन गृहीत्वा ॐ अमुकगोत्र प्रेतामुकदेवशर्म्मन्नेष ते सामिष- पिण्डः स्वधा इत्यवनेजनस्थाने वामहस्तान्वा- रब्धदक्षिणहस्तेन दद्यात् । ततः आचम्य हरिं स्मृत्वा पिण्डपात्रं प्रक्षाल्य वामहस्ताद्दक्षिण- हस्तेन गृहीत्वा प्रक्षालितजलं ॐ अमुकगोत्र प्रेतामुकदेवशर्म्मन्नवने निक्ष्व स्वधा इति पिण्डो- परि दद्यात् । ततः ॐ अत्र प्रेत मादयस्व यथा भागमा वृषायस्व इति जप्त्वा वामावर्त्तेनोद- ङ्मुखो भूत्वा आगमनाच्छ्वासं धृत्वा तेनैव पथा परावर्त्तमानः प्रेतं भास्वरमूर्त्तिं ध्यायन् ॐ अमीमदत् प्रेत यथा भागमा वृषायिष्ट इति दक्षिणाभिमुखो भवन् जपेत् । ततः श्वासं त्यजेत् । ॐ नमस्ते प्रेत प्रेत नमस्ते इति कृताञ्जलिर्जपेत् । ॐ गृहान्नः प्रेत देहि इति गृहिणीं पश्येत् । ॐ सदस्ते प्रेत देस्म इति पिण्डं पश्येत् । ततो नवमनवं वा शुक्लवस्त्र- दशाभवं सूत्रं वामहस्ताद्दक्षिणहस्तेन गृहीत्वा ॐ एतद्वः प्रता वास इति पठित्वा पिण्डोपरि निदध्यात् । ततः ॐ अमुकगोत्र प्रेतामुकदेव- शर्म्मन्नेतत्ते वासः स्वधा । इत्यनेनोत्सृजेत् । ततस्तूष्णीं पिण्डं संपूज्य ॐ वसन्तायेत्यादि- मन्त्रेण षडृतून्नमस्कुर्य्यात् । तत ॐ सुसुप्रोक्षित- मस्तु इति ब्राह्मणाग्रभूमिमासिञ्चेत् । ॐ शिवा आपः सन्त इति ब्राह्मणे जल दद्यात । ॐ सन्त्विति प्रतिवचनम । ॐ सौमनस्यमस्त्विति पुष्पं ॐ अस्त्विति प्रतिवचनम । ॐ अक्षत- ञ्चारिष्टञ्चास्तु इति यवान् दद्यात् । ॐ अस्त्वि- त्युत्तरम् । ततस्तिलाज्यमधुयुक्तं जलं गृहीत्वा ॐ अमुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणो दत्त- मिदमन्नपानादिकमुपतिष्ठताम् । ॐ उपतिष्ठ- तामिति प्रतिवचनम् । ॐ अघोरः प्रेतोऽस्तु इति वदेत् । ॐ अस्त्विति प्रतिवचनम् । ॐ गोत्रं नो वर्द्धतामिति वदेत् । ॐ वर्द्धतामिति प्रतिवचनम् । ततः पिण्डोपरि सपवित्रकुशा- नास्तीर्य्य ॐ ऊर्ज्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधास्थ तर्पयत मे प्रेतमित्य- नेन वारिधारया सिञ्चेत् । ततः ॐ अद्येत्यादि अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्म्मणः कृतै- तत्प्रथममासिकैकोद्दिष्टश्राद्धकर्म्मणः प्रतिष्ठार्थं दक्षिणामिदं रजतं तन्मूल्यं वा विष्णुदैवतं यथा नामगोत्राय ब्राह्मणायाहं ददानीति दद्यात् । ततो दक्षिणां दिशं पश्यन् वरं याचेत । नात्र पात्रमालभ्य जपेत् । नाशिषः प्रार्थयेदिति प्रचेतोवचनादाशिषं न प्रार्थयेत् । ततः ॐ देव- ताभ्य इति त्रिः पटेत् । ॐ अभिरम्यतामिति विसर्ज्जनम् । ॐअभिरतोऽस्मीति प्रतिवचनम् । ॐ आमावाजेति प्रदक्षिणवारिधारया वेष्टयेत् पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा क्षिपेत् । श्राद्धीयद्रव्यं ब्राह्मणाय दद्यात् जले वा क्षिपेत् । ततो वामदेव्यं गायेत् अच्छिद्रावधारणं दीपाच्छादनं विष्णुस्मरणञ्च कुर्य्यात् । एवं प्रकारेण द्वितीयादिमासिकं कर्त्त- व्यम् । इति स्मार्त्तभट्टाचार्य्यकृतश्राद्धप्रयोग- तत्त्वम् ॥ * ॥
अन्यत् श्राद्धशब्दे द्रष्टव्यम् ॥


शब्दकल्पद्रुमः

मासिकः || त्रि माससम्बन्धी । मासि भव इत्यर्थे ष्णिक्प्रत्ययेन निष्पन्नः ॥ (यथा, मनौ । ७ । १२६ । “पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥”)


वाचस्पत्यम्

मांसिक ||‍ त्रि० मांसं पण्यमस्य ठक् । मांसविक्रयोपजीविनि । (कसाइ) अमरः ।


शब्दकल्पद्रुमः

मांसिकः || पुं, (मांसाय प्रभवति “तस्मै प्रभवति सन्तापादिभ्यः ।” ५ । १ । १०१ । इति । मांस + ठञ् । मांसेन जीवतीति ठञ् वा । मांसं पण्य- मस्य । “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक् वा । अथवा, मांसं नियुक्तमस्मै दीयते । इति “श्रावणामांसौदनाट्टिठन् ।” ४ । ४ । ६७ । इति टिठन् ।)
मांसविक्रयी । इत्यमरः । २ । १० । १४ ॥



Correction: