संस्कृत-शब्दकोशः

मांसिनी मासुरी

मांसी

वाचस्पत्यम्

मांसी ||‍ स्त्री मांसमस्त्यस्य अच् गौ० ङीष् । १ जटामांस्याम् २ कक्कोल्याञ्च मेदि० ३ मांसच्छदायां राजनि० ।


शब्दकल्पद्रुमः

मांसी || स्त्री (मांसवत् पदार्थोऽस्त्यास्यामिति । मांस + अर्शआदित्वादच् । गौरादित्वात् ङीष् ।)
जटामांसी । कक्कोली । इति मेदिनी । से, ८ । मांसच्छदा । इति राजनिर्घण्टः ॥ (यथा, वैद्यकरत्नमालायाम् । “नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी ॥”)



Correction: