वाचस्पत्यम्
मास् || पु० माति परिच्छिनत्ति स्वगत्या कालस् मा—असुन् । १ चन्द्रे २ त्रिंशदिनात्मककालरूपे मासे च ।
शब्दकल्पद्रुमः
मास् || पुं, (माङ + माने “सर्व्वधातुभ्योऽसुन् ।” ४ । १८८ । इत्यसुन् ।)
चन्द्रः । (यथा, ऋग्वेदे । १० । १२ । ७ । “सूर्य्ये ज्योतिरदधुर्मास्यक्तून् परिद्योतनिं चरतो अजस्रा ॥” “मासि चन्द्रमसि ।” इति तद्भाष्ये सायणः ॥ मीयतेऽनेनेति । मा + “चन्द्रे मो डित् ।” उणा० ४ । २२७ । इत्यत्र “बाहुलकात् केवलादपि मोऽसिः ।” इत्युज्ज्वलोदत्तोक्तेरसिः ।)
मासः । इति मेदिनी । से, ७ ॥ अस्य प्रथमैकवच- नान्तरूपं माः ॥ (यथा, मनौ । २ । ३४ । “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गल कुले ॥” मांसे, क्ली । यथा, ऋग्वेदे । ५ । २९ । ८ । “त्रीयच्छता महिषाणामघो मास्त्रीसरांसि मघवा सोम्यापाः ।” “माः मांसानि ।” इति तद्भाष्ये सायणः ॥)