शब्दकल्पद्रुमः
माहानामिकः || पुं, (“तदस्य ब्रह्मचर्य्यम् ।” ५ । १ । ९४ । इत्यत्र । “माहा नाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् ॥” महा- नाम्न्यो नाम विदामघवन् ।’ इत्याद्या ऋचः । तासां ब्रह्मचर्य्यमस्य इति ठञ् । हरदत्तस्तु “भस्याढे ।” इति पुंवद्भावान् माहानामिक इत्याह । इति सिद्धान्तकौमुदी ।)
महानाम्नी- ऋचावेत्ता ब्राह्मणः । इति केचित् ॥