शब्दकल्पद्रुमः
माहिनं || क्ली (मह्यते पूज्यते अस्मिन् इति । मह् + “महेरिनण् च ।” उणा० । २ । ५६ । इति इनण् ।)
राज्यम् । इत्युणादिकोषः ॥ (मंहनीये, त्रि । यथा, ॠग्वेदे । ३ । ३६ । ९ । “इन्द्र ! यत्ते माहिनं दत्रमस्ति ।” “माहिनं मंहनीयम् ।” इति तद्भाष्ये सायणः ॥ प्रवृद्धे च । यथा, तत्रैव । १ । ५६ । ६ । “इन्द्र ! सदनेषु माहिनः ।” “माहिनः प्रवृद्धः ।” इति तद्भाष्ये सायणः ॥)