वाचस्पत्यम्
माहेन्द्र || पु० महेन्द्रस्यायम् अण् । ज्योतिषोक्ते महेन्द्रसम्ब- न्धिनि १ दण्डभेदे । २ पूर्वस्यां दिशि ३ इन्द्रपत्न्यां ३ गवि च स्त्री राजनि० ङीप् ।
शब्दकल्पद्रुमः
माहेन्द्रः || पुं, (महेन्द्रस्यायम् । महेन्द्र + अण् ।)
शुभदण्डविशेषः । रव्यादिसप्तवारेषु वायुवरुण- यममाहेन्द्राणामेकैकदण्डा भवन्ति । तत्र वरुण- माहेन्द्रयोर्द्दण्डौ शुभौ । वायुयमयोर्द्दण्डावशुभौ । यथा, “ख्यातं वा व यमा सूर्य्ये मा वा व य कला निधौ । व य मा वा कुजे ज्ञेया मा वा व य सुधां शुजे ॥ गुरौ वा व य मा चैव मा वा व य तथा भृगौ । सूर्य्यपुत्त्रे य मा वा व घटीयुग्मं शुभाशुभम् ॥ माहेन्द्रे विजयो नित्यं वारुणे च धनागमः । वायौ च भ्रमते नित्यं यमेऽपि मरणं ध्रुवम् ॥”)
इति सारसंग्रहः ॥ (माहेन्द्रकायपुरुषस्य लक्षणं यथा, —
“माहात्म्यं शौर्य्यमाज्ञा च सततं शास्तबुद्धिता । भृत्यानां भरणञ्चापि माहेन्द्रं कायलक्षणम् ॥” इति सुश्रुते शारीरस्थाने चतुर्थऽध्याये ॥ महेन्द्रो देवतास्येति । महेन्द्र + “महेन्द्राद्- घाणौ च ।” ४ । २ । २९ । इति अण् । महेन्द्रदैवत्ये, त्रि । यथा, भट्टिकाव्ये । १५ । ९३ । “अविभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे । तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम् ॥”)
महेन्द्रसम्बन्धिनि च । (यथा, रघौ । १२ । ८६ । “मातलिस्तस्य माहेन्द्रं ह्यामुमोच तनुच्छदम् ॥”)