संस्कृत-शब्दकोशः

माहेश्वर मि

माहेश्वरी

शब्दकल्पद्रुमः

माहेश्वरी || स्त्री (महेश्वरस्ययम् । महेश्वर + अण् । ङीष् ।)
यवतिक्ता । इति राजनिर्घण्टः । दुर्गा ॥ (यथा, महाभारते । १४ । ४३ । १४ । “भगदेवानुयातायां सर्व्वासां वामलोचना । माहेश्वरी महादेवी प्रीच्यते पार्व्वती हि सा ॥”)
मातृ-भेदः । इति शब्दरत्नावली ॥ (यथा, मन्त्रकोषे । ६ । ॐ ह्रीं नमो भगवति माहे- श्वरि अन्नपूर्णे स्वाहा ।)
विष्णुः । यथा, — कन्या उचुः ॥ “कस्त्वं विभ्राजसे कान्त्या केयं वा नवविप्रभा । कोन्वयं भाति वपुषा पङ्कजायतलोचनः ॥ निशम्य तासां वचनं वृषेन्द्रवरवाहनः । व्याजहार महायोगी भूताधिपतिरव्ययः ॥ अयं नारायणो गौरी जगन्माता सनातनः । विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ॥ न मे विदुः परं तत्त्वं देवाद्या न महर्षयः । एकोऽयं देवदेवात्मा भवानी विष्णुरेव च ॥ अहं हि निष्क्रियः शान्तः केवलो नित्यविग्रहः । मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥ एष धाता विधाता च कारणं कार्य्यमेव च । कर्त्ता कारयिता विष्णुर्भक्तिमुक्तिफलप्रदः ॥ भोक्ता पुमानप्रमेयः संहर्त्ता कालरूपधृक् । स्रष्टा धाता वासुदेवो विश्वात्मा विश्वतोमुखः ॥ कूटस्थो ह्यवरो व्यापी योगी नारायणः स्वयम् । तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ॥ एषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । शान्ता सत्या सदानन्दा परं पदमिति शुतिः ॥ अस्याः सर्व्वमिदं जातमत्रैव लयमेष्यति । एषैव सर्व्वभूतानां गतीनामुत्तमा गतिः ॥” इति कौर्म्मे १४ अध्यायः ॥ (पीठस्थानभेदः । इति देवीभागवते । ७ । ३० । ७२ । महेश्वरेण कृतम् । महेश्वर + अण् । क्ली । उपपुराणविशेषः । यथा, देवीभागवते । १ । ३ । १६ । “माहेश्वरं भागवतं वाशिष्ठञ्च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥” महेश्वरसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । १०९ । ७१ । “ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः । त्रिधा यस्य स्वरूपन्तु भानोर्भास्वान् प्रसीदतु ॥”)



Correction: