संस्कृत-शब्दकोशः

मिच्छ मितङ्गम

मित

वाचस्पत्यम्

मित ||‍ त्रि० मि मा—वा—क्त । १ परिमिते, २ शब्दिते ३ क्षिप्ते च ।


शब्दकल्पद्रुमः

मितः || त्रि (मा + क्तः “द्यतिस्यतिमास्थामित्ति किति ।” ७ । ४ । ४० । इत्याकारस्येकारा- देशः ।)
परिमितः । शब्दितः । क्षिप्तः । इति माधातोमिधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, भागवते । ८ । १३ । ३६ । “राजंश्चतुर्द्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्य्ययः ॥” यथा च नैषधचरिते । ९ । ८ । “मितञ्च सारञ्च वचो हि वाग्मिता ॥”)



Correction: