वाचस्पत्यम्
मितम्पच || पु० मितं पचति पच खच् मुम् च । १ कृपणे अनरः । २ परिमितपाचके त्रि० ।
शब्दकल्पद्रुमः
मितम्पचः || त्रि कृपणः । इत्यमरः ॥ ३ । २ । ४८ ॥ (मितं परिमितं पचतीति । मित + पच् + “मितनखे च ।” ३ । २ । ३४ । इति खश् । “अरुर्द्बिषदजन्तस्य मुम् ।” ६ । ३ । ६३ । इति मुम् च ।)
परिमितपाककर्त्ता च ॥