संस्कृत-शब्दकोशः

मित्त्रयु मित्रयु

मित्र

वाचस्पत्यम्

मि(त्त्र)त्र ||‍ न० मिद्यति स्निह्यति मिद—त्र । १ स्नेहान्विते सुहृदि, राज्ञां विषयानन्तरितनृपादितरस्मिन् २ राजनि तयो- र्द्वयोरपि मध्यस्थनृपस्य राज्यहरणरूपैककार्य्यकरत्वात् मित्त्रत्वम् । मि—त्र । एकतकारः ३ सूर्य्ये पु० अमरः ४ अर्कवृक्षे ।


शब्दकल्पद्रुमः

मित्त्रं || क्ली (मिनोति मानं करोति इति । “अमिचिमिदिशसिभ्य क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः ।)
शत्रोः परम् । इत्यमरः । २ । ८ । ९ ॥ अतः शत्रोः परमवस्थितो राजा मित्त्रं उपकारित्वात् । मेद्यति स्निह्यतीति त्रासु- सिति त्रः निपातात् गुणाभावः । द्बितकारं एकतकारञ्चेत्येके । इति तट्टीकायां भरतः ॥ अपि च । “राजा शत्रुरिति ख्यात एकार्थाभिनिवेशतः । भूम्यैकान्तरितो राजा स मित्त्रं मित्त्रकार्य्यतः ॥” इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

मित्रं || क्ली बन्धुः । मिता इति भाषा । तत्पर्य्यायः । सखा २ सुहृत् ३ । इत्यमरः । २ । ८ । १२ ॥ माययति जानाति सर्व्वं मित्रं मी कि गत्यां नाम्नीति डित्रः मित्रमजहल्लिङ्गम् । निपाता- त्तस्य द्वित्वे द्वितकारञ्च । इति तट्टीकायां भरतः ॥ तच्चतुर्व्विधम् । सहार्थः १ भजमानः २ सहजः ३ कृत्रिमः ४ । इति महाभारते राज- धर्म्मः ॥ * ॥
मित्रत्वोत्पत्तिर्यथा, —
“न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचि- द्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥” वर्ज्यमित्रं यथा, — कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् । कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्जयेत् ॥ कुमित्रे नास्ति विश्वासः कुराजे नास्ति जीवितम् ॥ परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं मायामयमरिन्तथा ॥” विश्वस्तस्यैव मित्रत्वं यथा, —
“सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्- झितः । तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥” इति गारुडे १३ । १४ । १५ । अध्यायाः ॥ * ॥
मित्रप्रशंसादिर्यथा, —
“यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ अपुत्त्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्व्वशून्या दरिद्रता ॥” इति हितोपदेशः ॥


शब्दकल्पद्रुमः

मित्रः || पुं, सूर्य्यः । इत्यमरः । १ । ३ । ३० ॥ (यथा, गोः रामायणे । २ । २५ । २२ । “स्वस्ति मित्रः सहादित्यैः स्वस्ति रुद्रा दिशन्तु ते ॥”)
द्वादशादित्यानामन्यतमः । यथा, महाभारते । १ । ६५ । १५ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।” मरुतामन्यतमः । यथा, हरिवंशे । १९६ । ५२ । “मरुत्वती मरुत्वन्तो देवानजनयत् सुतान् । अग्निश्चक्षुर्हविर्ज्योतिः सावित्रो मित्र एव च ॥” वशिष्ठस्य ऊर्ज्जागर्भजातः पुत्त्रभेदः । यथा, भागवते । ४ । १ । ३७ । चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्वणो वसुभृद्यानो द्युमान् शक्त्य्रादयो- ऽपरे ॥”)



Correction: