संस्कृत-शब्दकोशः

मिथस् मिथिला

मिथि

वाचस्पत्यम्

मिथि ||‍ पु० निमिराजपुत्रे विष्णुपु० ।


शब्दकल्पद्रुमः

मिथिः || पुं, (मेथते हिनस्ति शत्रुकुलं इति । मिथ् + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
निमिराजपुत्त्रः । स तु जनकराजः । यथा । अपुत्त्रस्य तस्य निमेर्भूभुजः शरीरमराजक- भीरवस्ते मुनयः अरण्यां ममन्थुः । तत्र च कुमारी जज्ञे । जननाज्जनकसंज्ञां चासाव- वाप । अभूद्बिदेहोऽस्य पितेति वैदेहः । मथ- नान्मिथिरभूत् । तस्योदावसुः पुत्त्रोऽभवत् । इति विष्णुपुराणे ४ अंशे ५ अध्यायः ॥ (तथाच रामायणे । १ । ७१ । ४ । “निमिः परमधर्म्मात्मा सर्व्वसत्त्ववतां वरः । तस्य पुत्त्रो मिथिर्नाम जनको मिथिपुत्त्रकः ॥”)



Correction: