संस्कृत-शब्दकोशः

मिथुन मिथ्याचार

मिथ्या

वाचस्पत्यम्

मिथ्या ||‍ अव्य० मिथ—क्यप् । अयथार्थे असत्ये ।


शब्दकल्पद्रुमः

मिथ्या || व्य, (मथते इति । मथविलोडने । मेथते हिनस्ति वेति । मथ वा मेथ + क्यप् । निपा- तनात् साधु ।)
असत्यम् । तत्पर्य्यायः । मृषा २ वितथः ३ अनृतम् ४ । इति शब्दरत्नावली ॥ मिछा इति भाषा ॥ (यथा, —
“यदसद्भासमानं तन्मिथ्या स्वाप्नगजादिवत् ।” इति सांख्यप्रवचनभाष्यधृतम् ॥ सा चाधर्म्मपत्नी । यथा, —
“अधर्म्मपत्नी मिथ्या सा सर्व्वधूर्त्तैश्च पूजिता । यया विना जगन्मुक्तमुच्छन्नं विधिनिर्म्मितम् ॥ सत्ये चादर्शना या च त्रेतायां सूक्ष्मरूपिणी । अर्द्धावयवरूपा च द्बापरे संवृता भिया ॥ कलौ महाप्रमत्ता च सर्व्वत्र व्यापिका बलात् । कपटेन समं भ्रात्रा भ्रमत्येव गृहे गृहे ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥ अपि च । “अधर्म्मस्य प्रिया रम्या मिथ्या मार्ज्जार- लोचना । तस्याः पुत्त्रोऽतितेजस्वी दम्भः परमकोपनः ॥ स मायायां भगिन्यान्तु लोभं पुत्त्रञ्च कन्यकाम् । निकृतिं जनयामास तयोः क्रोधः सुतोऽभवत् ॥” इति कल्किपुराणे १ अध्यायः ॥ विषयभेदे मिथ्याभाषणे दोषाभावो यथा, — शर्म्मिष्ठोवाच । “न नर्म्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्व्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥” मिथ्याकथने दोषो यथा, —
“पृष्टास्तु साक्ष्ये प्रवदन्ति येऽन्यथ भवन्ति मिथ्यापतिता नरेन्द्र ! । एकार्थतायान्तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥” ययातिरुवाच । “राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्त्तुमुत्सहे ॥” इति मात्स्ये ३१ अध्यायः ॥ अथासत्याभिधानप्रायश्चित्तम् । तत्र सकृद- सत्यभाषणे कृष्णानुस्मरणं प्रायश्चित्तम् । यथा, विष्णुपुराणम् । “कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तन्तु तस्यैकं कृष्णानुस्मरणं परम् ॥” अत्यन्ताभ्यासे विष्णुः । निन्दितेभ्यो धनादानं बाणिज्यं कुसीदजीवनम् । असत्यभाषणं शूद्र- सेवनमित्यपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति । अतिबहुतरकालाभ्यासे मनुः । “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ।” चातुर्व्वर्णवधे साक्ष्येऽनृतभाषणेऽनुपातकत्वाभा- वाल्लघु प्रायश्चित्तमाह याज्ञवल्क्यः । “वर्णिनां हि वधो यत्र तत्र साक्ष्येऽनृतं वदेत् । तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥” शूद्रे तु विष्णः । तत्पावनाय कुष्माण्डीभिर्द्विजो- ऽग्निं जुहुयात् । शूद्रश्चैकोद्दिष्टं गोदशकस्य ग्रासं विदध्यात् । विषयविशेषेऽपवादमाह हारीतः । सोमविक्रयकन्याविवाहभयमैथुन- बालकसंज्ञपनं गोब्राह्मणहितञ्च कुर्व्वन् मिथ्या न लिप्यत इति । तथा च यमः । “न नर्म्मयुक्तं वचनं हिनस्ति न स्वैरवाक्यं न च मैथुनार्थे । प्राणात्यये सर्व्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥” इति प्रायश्चित्तविवेकः ॥



Correction: