वाचस्पत्यम्
मिद || बाधे मेधायाञ्च भ्वा० उ० सक० सेट् । मेदति—ते अमेदीत् ऋदित् चङि न ह्रस्वः ।
वाचस्पत्यम्
मिद || स्नेहे चु० उम० सक० सेट्’ मेदयति—ते अमीमिदत्—त
वाचस्पत्यम्
मिद || स्नेहे दि० पर० सक० सेट् । मेद्यति—ते इरित् अमिदत् अमेदीत् । आदित् क्त मेदितं भिन्नम् ।
वाचस्पत्यम्
मिद || स्नेहे भ्वा० आ० लुङि प० अक० सेट् । मेदते इरित् अमिदत् आदित् भावादौ क्ते मिन्नं मेदितम् ।
वाचस्पत्यम्
मिद || स्नेहे वा चु० उभ० पक्षे भ्वा० अक० सेट् इदित् । मिन्द- यति अमिन्दत्—त । पक्षे मिन्दति अमिन्दीत् ।
शब्दकल्पद्रुमः
मिद || इ क स्निहि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
इ क मिन्दयति वर्त्तिका तैलेन । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मिद || इर् य आ स्निहि । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् ।)
इर् अमिदत् अमेदीत् । य इति व्यायामशीलोऽसौ महा- कायो न मेद्यतीति हलायुधः । आ मेदितं मिन्नं तेन । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मिद || ऋ ञ वधमेधयोः । इति कविकल्पद्रमः ॥ (भ्वा०-उभ०-सक०-सेट् ।)
ऋ अमिमेदत् । ञ मेदति मेदते शास्त्रार्थं शिष्यो धारयती- त्यर्थः । मिमिदुः मिमेदुः । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
मिद || ऌ आ ञि ङ स्निहि । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ऌ अमिदत् । ञि मिन्नोऽस्ति । ङ मेदते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मिद || क स्निहि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
क मेदयति वर्त्तिका तैलेन । इति दुर्गादासः ॥