वाचस्पत्यम्
मिशि(शी) || स्त्री मिश—इन् वा ङीष् । १ मधुरिकायां (मौरी) २ शतपुष्पायां, (सुलफा) भरतः ३ जटामांस्याञ्च शब्दर० । अत्र पृषो० मिषि मिषी मिसि—मिसी इत्यादयः उक्तार्थेषु । तत्र पाठान्तरम् ।
शब्दकल्पद्रुमः
मिशिः || स्त्री (मिश + इन् ।)
मधुरिका । शत- पुष्पा । इत्यमरटीकायां मरतः ॥ जटामांसी । इति शब्दरत्नावली ॥