वाचस्पत्यम्
मिश्रकावण || न० मिश्रकनामकं वनं पूर्वदीर्घो णत्वञ्च । १ इन्दोद्याने ।
शब्दकल्पद्रुमः
मिश्रकावणं || क्ली (मिश्रकाणां वनम् । “वनगिर्य्योः संज्ञायां कोटरकिंशुलकादीनाम् ।” ६ । ३ । ११७ । अकारस्याकारः “वनं पुरगामिश्रका- सिध्रकाशारिकाकोटराग्रेभ्यः ।” ८ । ४ । ४ । इति णत्वम् ।)
इन्द्रस्योद्यानम् । यथा, —
“नन्दनं कन्दसारं स्यान्मिश्रकावणमित्यपि ।” इति त्रिकाण्डशेषः ॥