संस्कृत-शब्दकोशः

मिश्र मिश्रकावण

मिश्रक

शब्दकल्पद्रुमः

मिश्रकं || क्ली (मिश्र + कन् ।)
देवोद्यानम् । इति जटाधरः ॥ औषरलवणम् । इति राज- निर्घण्टः ॥ (मिश्र + ण्वुल् । त्रि, मिश्रणकर्त्ता । यथा, मनौ । ११ । ५० । “पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरैक्यन्तु मिश्रकः ।” तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८२ । “ततो गच्छेत धर्म्मज्ञ ! मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेन्द्र ! मिश्रितानि महा- त्मना ॥”)



Correction: