वाचस्पत्यम्
मिष || न० मिष—क । १ छले २ स्पर्द्धने पु० मेदि० ।
वाचस्पत्यम्
मिष || पराभिभवेच्छायाम् तु० पर० सक० नेट् । मिषति अमेषीत् मिमेष ।
वाचस्पत्यम्
मिष || सेचने भ्वा० पर० सक० सेट् । मेषति अमेषीत् । उदित् क्त्वा वेट् ।
शब्दकल्पद्रुमः
मिष || उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
उ मेषित्वा मिष्ट्वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मिषं || क्ली (मिष् + कः ।)
छलम् । इति मेदिनी । षे, २१ ॥ (यथा, नैषधे । १ । ११८ । “प्रियासु बालासु रतक्षमासु च द्बिपत्रितं पल्लवितञ्च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वाश्चरणद्वयस्य च ॥”)
शब्दकल्पद्रुमः
मिषः || पुं, (मिष् + कः ।)
स्पर्द्धनम् । इति मेदिनी । षे, २१ ॥ (यथा, कथासरित्सागरे । ६४ । १२५ । “इति ध्यायन् मिषं कृत्वा तदैवास्फुटया गिरा । निर्गत्यैव विरक्तात्मा धनदेवान्तिकं ययौ ॥”)
शब्दकल्पद्रुमः
मिष || श स्पर्द्धे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
स्पर्द्धः पराभिभवेच्छा । इति वोपदेवः ॥ श मिषति बली बलवन्तम् । इति दुर्गादासः ॥