शब्दकल्पद्रुमः
मिष्टपाकः || पुं, (मिष्टेन पाको यस्य ।)
शर्क्करा- रसपक्वफलादिः । मोरव्वा इति पारस्यभाषा ॥ तदेकप्रकारो यथा । अपक्वाम्रं द्बिखण्डं कृत्वा तद्गात्रे शलाकया छिद्रजालकरणान्तरं चूर्ण- मिश्रितजले दण्डचतुष्टयं स्थापयित्वा जलेन धौतं कुर्य्यात् । ततो जलेन सिद्धं कृत्वा जल- त्यागपूर्ब्बकमेकतारबद्धशर्क्करारसे मग्नकरणा- नन्तरं तापं दद्यात् । रसे घनीभूते अर्द्धदण्डं यावत् तापेन निष्पन्नो भविष्यति । इति पाक- राजेश्वरः ॥