शब्दकल्पद्रुमः
मिसी || स्त्री (मस्यति परिणमतीति + इन् बाहुलकादत इकारः । पक्षे ङीष् ।)
मधुरिका । (यथास्य पर्य्यायः । “मिसिर्मधुरिका मता ।” इति गारुडे । २०८ अः ॥)
जटामांसी । शत- पुष्पा । इत्यमरभरतौ ॥ (शतपुष्पार्थे पर्य्यायो यथा, —
“शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिलम्बी सितच्छत्रा संहितच्छत्रिकापि च ॥ छत्रा शालेयशालिन्यौ मिश्रेया मधुरा मिषिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
उशीरी । इति राजनिर्घण्टः ॥ अजमोदा । इति मेदिनी । से, ८ ॥