वाचस्पत्यम्
मीढ्वस् || पु० मिह—क्वसु नि० । शिवे ।
शब्दकल्पद्रुमः
मीढ्वान् || [स्] पुं, (मिह सेचने । “दाश्वान् साह्वान् मीढ्वांश्च ।” ६ । १ । १२ । इति छन्दसि क्वसुः । द्वित्वाभावः अनिट्त्वं उपधा- दीर्घत्वं ढत्वञ्च निपात्यते ।)
शिवः । यथा, —
“ततो मीढ्वांसमामन्त्र्य सुनासीराः सहर्षिभिः । भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ॥” इति श्रीमद्भागवते ४ स्कन्धे ६ अध्यायः ॥ “मीढ्वांसं शिवं मीढुषा वेधसा च वर्त्तमानाः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (वर्षितरि, त्रि । यथा, ऋग्वेदे । २ । २४ । १ । “यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते ।” “मीढ्रान् सेक्ता स्तुतेर्वर्षिता ।” इति तद्भाष्ये सायणः ॥)