संस्कृत-शब्दकोशः

मुकुटी मुकुन्दक

मुकुन्द

वाचस्पत्यम्

मुकुन्द ||‍ पु० मुकुं ददाति दा—क पृषो० मम् । “मुकुमध्ययमान्तञ्च निर्वाणमोक्षवाचकम् । तद्दाति च यो देवः मुकुन्दस्तेन कीर्तितः” “मुकुम् भक्तिरसप्रेमवचनं वेदसम्मतम् । यस्तद् ददाति भक्तेभ्यो मुकुन्दस्तेन कीर्त्तितः” ब्रह्मवै० जन्मख० ११० अ० इति वा निरुक्ते विष्णौ ।


शब्दकल्पद्रुमः

मुकुन्दः || पुं, विष्णुः । तस्य व्युत्पत्तिर्यथा, —
“मुकुमव्ययमान्तञ्च निर्व्वाणमोक्षवाचकम् । तद्ददाति च यो देवो मुकुन्दस्तेन कीर्त्तितः ॥ मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् । यस्तद्ददाति विप्रेभ्यो मुकुन्दस्तेन कीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ निधिविशेषः । (यथा, मार्कण्डेये । ६८ । ५ । “यत्र पद्ममहापद्मौ तथा मकरकच्छपौ । मुकुन्दो नन्दकश्चैव नीलः शङ्खोऽष्टमो निधिः ॥” अस्य गुणादिकं निधिशब्दे उक्तम् ।)
रत्नभेदः । कुन्दुरुः । इति मेदिनी । दे, ३८ ॥ (यथा च पर्य्यायः । “कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पारदः । इति हेमचन्द्रः । २ । १२९ ॥



Correction: