वाचस्पत्यम्
मुकुल || पु० न० मकि—उलच् पृषो० । १ ईषद्विकाशितकलि- कायाम् अमरः २ देहे, ३ आत्मनि च धरणिः ।
शब्दकल्पद्रुमः
मुकुलः || पुं, क्ली, (मुञ्चति कलिकात्वम् । मुच् + घुलक् । इति भरतः ॥ मुचेरलः । कत्वमुत्वञ्चेति कत्वे अकारस्योत्वे मुकुल इति रायः ।)
ईषद्- विकसितकलिका । तत्पर्य्यायः । कुट्मलः २ । इत्यमरः । २ । ४ । १६ ॥ (यथा, रघौ । ९ । ३१ । उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।”)
मकुलः ३ पौटकोरकः ४ । इति शब्दरत्नावली ॥ शरीरम् । आत्मा । इति धरणिः ॥ (राज- पुरुषविशेषः । यथा, राजतरङ्गिण्याम् । ६ । २५३ । “इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा । यशोधरं शुभधरं मुकुलञ्च सबान्धवम् ॥”)