शब्दकल्पद्रुमः
मुक्ताकलापः || पुं, (मुक्तानां कलापः समूहोऽत्र ।)
मुक्ताहारः । यथा, —
“हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः ।” इति हेमचन्द्रः । ३ । ३२२ ॥ (यथा, कुमारसम्भवे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥”)