वाचस्पत्यम्
मुक्ताप्रालम्ब || पु० मुक्तया मुक्ताविशिष्टतया प्रालम्बते अच् । मुक्ताहारे हेमच० ।
शब्दकल्पद्रुमः
मुक्ताप्रालम्बः || पुं, (मुक्तानां प्रालम्बः हारभेदः ।) मुक्ताहारः । इति हेमचन्द्रः । ३ । ३२२ ॥