संस्कृत-शब्दकोशः

मुखदूषण मुखधावनं

मुखदूषिका

शब्दकल्पद्रुमः

मुखदूषिका || स्त्री (मुखं दूषयति विवर्णं करो- तीति । दुष् + णिच् + ण्वुल् टाप् अत इत्वञ्च ।)
मुखजातक्षुद्ररोगविशषः । वयस्फोडा इति भाषा । तल्लक्षणमाह । “शाल्मलीकण्टकप्रख्याः कफमारुतपित्तजाः । जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः ॥” प्रख्याः सदृश्यः । एता यूनामेव मुखे भवन्ति स्वभावात् ॥ * ॥
अथ तच्चिकित्सा । “अङ्गुलस्य चतुर्थांशो मुखे लेपः कनिष्ठकः । मध्यमस्तु त्रिभागः स्यादुत्तमोर्द्धाङ्गुलो भवेत् ॥ स्थितिकालोऽपि तस्योक्तो यावत् कल्को न शुष्यति । शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् ॥” मुखलेपमाह । “लोध्रधान्यवचालेपस्तारुण्यपिडकापहः । तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनम् ॥ सिद्धार्थकवचालोध्रैः सैन्धवैश्च प्रलेपनम् । वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम् ॥ केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलि- कण्टकाः । आलिप्तं त्र्यहमेतेन भवेत् पद्मोपमं मुखम् ॥” इति भावप्रकाशः ॥



Correction: