संस्कृत-शब्दकोशः

मुखधौता मुखनिवासिनी

मुखनिरीक्षक

वाचस्पत्यम्

मुखनिरीक्षक ||‍ त्रि० मुखमितरास्यं निरीक्षते निर् + ईक्ष ण्वुल् । १ अलमे शब्दर० । स हि अन्योयदि स्वकृत्य कुर्य्यात् तदानाहं करोमीत्याशयेन इतरमुखं निरीक्ष- माणः स्वकार्य्ये न प्रवर्त्तते । इति तस्य तथात्वम् ।


शब्दकल्पद्रुमः

मुखनिरीक्षकः || पुं, (मुखं निरीक्षते इति । निर् + ईक्ष् + ण्वुल् । उद्योगं विहायान्यमुखापेक्षि- त्वेनावस्थानादस्य तथात्वम् ।)
अलसः । इति शब्दरत्नावली ॥



Correction: