मुखवन्धनं
मुखवाचिका
मुखवल्लभ
वाचस्पत्यम्
मुखवल्लभ || पु० ६ त० । १ दाडिमवृक्षे शब्दमा० तत्फलस्य मुखप्रियत्वात् तस्य तथात्वम् । २ मुखप्रिये त्रि० ।
शब्दकल्पद्रुमः
मुखवल्लभः || पुं, (मुखस्य वल्लभः प्रीतिकरः ।)
दाडिमवृक्षः । इति शब्दमाला ॥ मुखप्रिये, त्रि ॥