शब्दकल्पद्रुमः
मुखसुरं || क्ली (मुखस्य सुरा इति “विभाषा सेनासुराच्छायाशालानिशानाम् । २ । ४ । २५ । इति षष्ठीसमासे सुराशब्दस्य ह्रस्वत्वम् ।) तालसुरा । इति त्रिकाण्डशेषः । ताडी इति भाषा ॥