शब्दकल्पद्रुमः
मुख्यसर्गः || पुं, (मुख्यानां सर्ग इति ।) स्थावर- सृष्टिः । यथा, — “मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।” इति वराहपुराणम् ॥