शब्दकल्पद्रुमः
मुग्धबोधं || क्ली (मुग्धः सुन्दरः बोधः ज्ञानं पद- पदार्थानां भवत्यस्मात् । यद्बा, मुग्धान् मूढान् अल्पबुद्धीन् जनान् बोधयतीति । मुग्धबोधम् । इति दुर्गादासः । मुग्ध + बुध् + “कर्म्मण्यण् । ३ । २ । १ । इति अण् ।)
वोपदेवकृतव्याकरण- विशेषः । यथास्याद्यश्लोकः । “मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते । मुग्धबोधं व्याकरणं परोपकृतये मया ॥”