वाचस्पत्यम्
मुञ्ज || पु० मुजि—अच् । (मुज) रज्ज्वुसाधने तृणभेदे राजनि० । “मृञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णा विसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्य मेखलासूपयुज्यते” भावप्र० ।
शब्दकल्पद्रुमः
मुञ्जः || पुं, (मुञ्ज्यते मृज्यते अनेन । मुञ्ज + करणे अच् ।)
तृणविशेषः । मुँज इति भाषा ॥ (यथा, पञ्चदश्याम् । १ । ४२ । “यथा मुञ्जादीषिकैवमात्मा युक्त्या समुद्धृतः । शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥”)
तत्पर्य्यायः । मौञ्जीतृणाख्यः २ ब्राह्मण्यः ३ तेजनाह्वयः ४ वाणीरकः ५ मुञ्जनकः ६ शीरी ७ दर्भाह्वयः ८ दूरमूलः ९ दृढतृणः १० दृढमूलः ११ बहुप्रजः १२ रञ्जनः १३ शत्रु- भङ्गः १४ । अस्य गुणाः । मधुरत्वम् । शीत- त्वम् । कफपित्तजदोषनाशित्वम् । ग्रहरक्षासु दीक्षासु च पावनत्वम् । भूतनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेधसः । मुञ्जद्बयन्तु मधुरं तुवरं शिशिरं तथा ॥ दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ शरः । इति रत्नमाला । उपनयनकाले मुञ्ज- मेखलाधारणविधिर्यथा । अथैनं माणवक- माचार्य्यस्त्रिःप्रदक्षिणं त्रिवृतं मुञ्जमेखलां परि- धापयन् मन्त्रद्वयं वाचयति । इति भवदेव- भट्टः ॥