संस्कृत-शब्दकोशः

मुथशील मुदा

मुद

वाचस्पत्यम्

मुद(दा) ||‍ स्त्री मुद० सम्प० भावे क्विप् वा टाप् । १ हर्षे अमरः । २ वृद्धिनामौषधौ राजनि० ।


वाचस्पत्यम्

मुद ||‍ समार्ज्जने चु० उ० सक० सेट् । मोदयति ते अमूमुदत् त


वाचस्पत्यम्

मुद ||‍ हर्षे भ्वा० आ० अक० सेट् । मोदते अमोदिष्ट । मुमुदे ।


शब्दकल्पद्रुमः

मुद || क संसर्गे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।)
क मोदयति घृतेनान्नं लोकः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुद || ञि ङ हर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
हर्षश्चित्तोत्साहः । ञि मुदितोऽस्ति ङ मोदते धनी । इति दुर्गा- दासः ॥



Correction: