वाचस्पत्यम्
मुद्गल || न० मुदं गिलति गृ—अच् रस्य लः । १ रोहिषतृणे राजनि० । २ गोत्रप्रवरर्षौ मुनिभेदे, ३ नृपभेदे पु० ।
शब्दकल्पद्रुमः
मुद्गलं || क्ली रोहिषतृणम् । इति राजनिर्घण्ठः ॥
शब्दकल्पद्रुमः
मुद्गलः || पुं, हर्य्यश्वराजपुत्त्रः । यथा, —
“सुशान्तेः पुरुजानुः तस्माच्चर्क्षः ततश्च हर्य्यश्वः हर्य्यश्वान्मुद्गलसृञ्जयबृहदिषुयवीनरकाम्पिल्य- संज्ञाः । पञ्चानामेतेषां विषयाणां रक्षणाया- लमेते मत्पुत्त्रा इति पित्राभिहिता इति पञ्चालाः । इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥ (मुद्गं लातीति । ला + कः । इत्यु- णादिवृत्तौ उज्ज्वलदत्तः ।)
गोत्रकारकमुनि- विशेषः । तस्य भार्य्या इन्द्रसेना । इति पुराणम् ॥ (उपनिषद्विशेषः ॥)