संस्कृत-शब्दकोशः

मुद्राङ्कित मुद्रिका

मुद्रालिपि

वाचस्पत्यम्

मुद्रालिपि ||‍ स्त्री मुद्रया लिपिः । पञ्चधाविभक्तलिपिमध्ये लिपिभेदे (छापार अक्षर)


शब्दकल्पद्रुमः

मुद्रालिपिः || स्त्री (मुद्रया लिपिः ।)
पञ्चधा- लिप्यन्तर्गतलिपिविशेषः । छापार अक्षर इति भाषा । यथा, —
“मुद्रालिपिःशिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः । एताभिर्लिपिभिर्व्याप्ता धरित्री शुभदा हर ! ॥” इति वाराहीतन्त्रम् ॥ अस्याः पाठ्यत्वं धार्य्यत्वञ्च यथा, —
“लेखन्या लिखितं विप्रैर्मुद्राभिरङ्कितञ्च यत् । शिल्पादिनिर्म्मतं यच्च पाठ्यं धार्य्यञ्च सर्व्वदा ॥” इति खड्गमालातन्त्रम् ॥



Correction: