वाचस्पत्यम्
मुद्रिका || स्त्री मद्रैव क्षुद्रा वा मुद्रा कन् । स्वर्णरौप्यादि निर्मिते अङ्गुलिस्थे अङ्कनसाधनयोग्ये पदार्थे ।
शब्दकल्पद्रुमः
मुद्रिका || स्त्री (मुद्रा स्वार्थे कन् + स्त्रियां टाप् । पूर्व्वाकारस्य ह्रस्वत्वम् । अत इत्वं च ।)
स्वर्ण- रूप्यादिनिर्म्मितमुद्रा । मोहर टाका इत्यादि भाषा । यथा, —
“सौवर्णीं राजतीं ताम्रीमायसीं वा सुशो- भिताम् । सलिलेन सकृद्धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥” इति मिताक्षरायां व्यवहाराध्यायः ॥