वाचस्पत्यम्
मुनितरु || पु० मुनिरगस्त्यनामकस्तरुः । वकवृक्षे रत्नमा० ।
शब्दकल्पद्रुमः
मुनितरुः || पुं, (मुनेरगस्त्यस्य प्रियः तरुः । इति मध्यपदलोपी समासः ।) वकवृक्षः । इति रत्नमाला ॥