वाचस्पत्यम्
मुनिद्रुम || पु० मुनीनां प्रियो मुनिनामको वा द्रुमः । १ श्यो- नाकवृक्षे रत्नमा० २ वकवृक्षे च राजनि० ।
शब्दकल्पद्रुमः
मुनिद्रुमः || पुं, (मुनेरगस्त्यस्य प्रियः द्रुमः । इति मध्यपदलोपी समासः ।)
श्योनाकवृक्षः । इति रत्नमाला ॥ श्योनाकप्रभेदः । वकवृक्षः । इति राजनिर्घण्टः ॥ (यथा, नैषधचरिते । १ । ९६ । “मुनिद्रुमः कोरकितः शितिद्युति- र्वनेऽमुनाऽमन्यत सिंहिकामुतः ॥” “मुनिद्रुमः वकवृक्षः ।” इति तट्टीका ॥ अस्य पर्य्यायो यथा, —
“अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “श्योनाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः । दीर्घवृन्तश्च कट्वङ्गो भल्लुकष्टुण्टकोऽरुणुः ॥” इति वैद्यकरत्नमालायाञ्च ॥)