संस्कृत-शब्दकोशः

मुनिपुत्रक मुनिपुष्पक

मुनिपुष्प

वाचस्पत्यम्

मुनिपुष्प ||‍ न० मुनिद्रुमस्य पुष्पं भौमो भीमसेनवदुत्तरपदलोपः । वकपुष्पे ।


शब्दकल्पद्रुमः

मुनिपुष्पं || क्ली (मुनिद्रुम इति । “ठाजा दावूर्द्ध्वं द्वितीयादचः ।” ५ । ३ । ८३ । इत्यत्र “विनापि प्रत्ययेन पूर्ब्बोत्तरपदयोर्विभाषालोपो वक्तव्यः ।” इति काशिकोक्तेः द्रुम इत्यस्य लोपे मुनिः तस्य पुष्पम् ।)
वकपुष्पम् ॥ (यथा, तिथितत्त्वे । “विहाय सर्व्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥” वकवृक्षे, पुं, । तत्पर्य्यायो यथा, —
“अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: