संस्कृत-शब्दकोशः

मुमूचान मुर

मुमूर्षु

वाचस्पत्यम्

मुमूर्षु ||‍ त्रि० मर्त्तुमिच्छुः मृ—सन्—उ । आसन्नमरणे ।


शब्दकल्पद्रुमः

मुमूर्षुः || त्रि (मर्त्तुमिच्छुः । मृ + सन् + उः ।)
आसन्नमृत्युः । (यथा श्रीमद्भागवते । ७ । ८ । ११ । “व्यक्तं त्वं मर्त्तुकामोऽसि योऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन् ! ननु स्युर्विक्लवा गिरः ॥”)
अथ मुमूर्षुकृत्यानि । हारीतः । ‘शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः । स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥’ शूद्रान्नं शूद्रस्वामिकान्नम् । तद्दत्तमपि भोजन- काले तद्गृहावस्थितं यत् तदपि शूद्रान्नम् । तदाहाङ्गिराः । ‘शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि । निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥’ अपिशब्दात् साक्षात् तद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागते पुन- रङ्गिराः । ‘यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः । शूद्राद्बिप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥’ प्रविष्टं सत्त्वापादकप्रतिग्रहादिना इति शेषः । अतएव पराशरः । ‘तावद्भवति शूद्रान्नं यावन्न स्पृशति द्बिजः । द्बिजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥’ स्पृशति प्रतिगृह्णाति इति कल्पतरुः ॥ तच्च संप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् । ‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ।’ तच्च पात्रान्तरे ग्राह्यमाह अङ्गिराः । ‘स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः । पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥’ एतेन स्वगृहमागतस्यैव शुद्धत्वम् । तद्गृहगतस्य शूद्रान्नदोषभागित्वं प्रतीयते । ततश्चैतादृगपि मुमूर्षुणा सर्व्वथा शूद्रान्नं न भोक्तव्यम् ॥ * ॥
पूजारत्नाकरे । ‘शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्सन्निधौ त्यजेत् प्राणान् याति विष्णोः परं पदम् ॥’ लिङ्गपुराणे । ‘शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । कीकटेऽपि मृतो याति वैकुण्ठभवनं नरः ॥’ कीकटो मगधः ॥ * ॥
वैष्णवामृते व्यासः । ‘तुलसीकानने जन्तोर्यदि मृत्युर्भवेत् क्वचित् । स निर्भर्त्स्य यमं पापी लीलयैव हरिं विशेत् ॥ प्रयाणकाले यस्यास्ये दीयते तुलसीदलम् । निर्व्वाणं याति पक्षीन्द्र ! पापकोटियुतोऽपि सः ॥’ कूर्म्मपुराणम् । ‘गङ्गायाञ्च जले मोक्षो वाराणस्यां जले स्थले । जले स्थले चान्तरीक्षे गङ्गासागरसङ्गमे ॥’ स्कान्दे । ‘गङ्गायां त्यजतः प्राणान् कथयामि वरानने ! । कर्णे तत् परमं ब्रह्म ददामि मामकं पदम् ॥’ तथा । ‘तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यते । अत्र दानं जपो होमो गङ्गायां नात्र संशयः ॥ अत्रस्थास्त्रिदिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥’ गव्यूतिः क्रोशयुगम् । तीर्थचिन्तामणौ ब्रह्म- पुराणम् । ‘अत्र दूरे समीपे च सदृशं योजनद्बयम् । गङ्गायां मरणेनेह नात्र कार्य्या विचारणा ॥’ * ॥
एवं गङ्गादिमरणेन प्राप्तब्रह्मलोकस्याप्यौर्द्ध- देहिकी क्रिया तदधिकारिणा कर्त्तव्या नित्य- त्वात् । तथा च श्रीमद्भागवते । ‘कृष्ण एवं भगवति मनोवाक्दृष्टिवृत्तिभिः । आत्मन्यात्मानमावेश्य सोऽन्तःश्वासमुपारमत् ॥ संपद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्व्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ तस्य निर्हरणादीनि संपरेतस्य भार्गव ! । युधिष्ठिरः कारयित्वा मुहूर्त्तं दुःखितोऽभवत् ॥’ कृष्णे आत्मनि परमात्मनि आत्मानं स्वीयात्मानं निवेश्य एकीकृत्य स भीष्मः उपारमत् मुक्तिं गतवान् । निष्कले निरुपाधौ ब्रह्मणि संपद्य- मानं मिलितं आज्ञाय आलक्ष्य तस्य भीष्मस्य निर्हरणादीनि संस्कारादीनि संपरेतस्य सम्यक् परेतस्य मुक्तस्यापि । भार्गवेति शौनकस्य सम्बोधनम् । एवञ्च एतेषामपि तत्तत्कर्म्मणि तत्तद्वचनोपात्तप्रेतपदस्य पितृपदस्य च मन्त्रा- दिषु यथायथं वाचनिकत्वात् प्रयोगः सङ्गच्छते । ‘आसन्नमृत्युना देया गौः सवत्सा च पूर्ब्बवत् । तदभावे च गौरेका नरकोद्धारणाय वै ॥ तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् । शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्- मृतंस्य च ॥’ पूर्ब्बवद्धेमशृङ्गादिना । अत्र मृतस्य चेति श्रवणात् एकादशाहेऽपि वैतरणीदानाचारः । वनपर्व्वणि । ‘सार्थः प्रवसतो मित्रं भार्य्या मित्रं गृहे सतः । आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥’ वराहपुराणे । “व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः । पुण्यकालास्तदा सर्व्वे यदा मृत्युरुपस्थितः ॥ गोभूतिलहिरण्यादि दत्तमक्षयतामियात् ॥” निरवकाशत्वादत्र मलमासादिदोषो नास्ति सूतकमपि न । तथा च शुद्धिरत्नाकरे दक्षः । “सुस्थकाले त्विदं सर्व्वं सूतकं परिकीर्त्तितम् । आपद्गतस्य सर्व्वस्य सूतकेऽपि न सूतकम् ॥” इति शुद्धितत्त्वम् ॥



Correction: