वाचस्पत्यम्
मुर || पु० मुर—क । १ दैत्यभेदे “पार्थेनाथ द्विषन् मुरम्” माधः २ वेष्टने । ३ स्वनामख्याते गन्धद्रव्ये स्त्री अमरः टाप् ।
वाचस्पत्यम्
मुर || वेष्टने तु० पर० सक० सेट् । मुरति अमीरीत् ।
शब्दकल्पद्रुमः
मुरं || क्ली (मूर्य्यते इति । मुर् + अन्यत्रापीति भावे कः ।)
वेष्टनम् । इत्यमरटीकायां मथुरेशः ॥
शब्दकल्पद्रुमः
मुरः || पुं, (मुरति वेष्टतेऽसौ । मुर् + इगुपधत्वात् कर्त्तरि कः )
दैत्यविशेषः । इति मेदिनी । रे, ७७ ॥ यं हत्वा विष्णुर्मुरारिनामाभूत् ॥ (यथा, श्रीमद्भागवते । ३ । ३ । ११ । “शम्बरं द्विविदं बाणं मुरं बल्कलमेव च । अन्यांश्च दन्तवक्रादीनवधीत् कांश्च घातयत् ॥”)
शब्दकल्पद्रुमः
मुर || श वेष्टने । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
पवर्गशेषादिः । श मुरति वृक्षं लता । मोरिता । इति दुर्गादासः ॥