वाचस्पत्यम्
मुरज || पु० मुरात् वेष्टनात् जायते जन—ड । मृदङ्गे वाद्यभेदे अमरः । स इव बन्धः । मुरजबन्धः । चित्रासङ्कारभेदे ।
शब्दकल्पद्रुमः
मुरजः || पुं, (मुरात् संवेष्टनात् जायतेऽसौ । मुर + जन + डः ।)
मृदङ्गः । इत्यमरः । १ । ७ । ५ ॥ (यथा, रामायणे । २ । ३९ । ४१ । “मुरजपणवमेघघोषवद्- दशरथवेश्म बभूव यत् पुरा । विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥”)