वाचस्पत्यम्
मुर्मुर || पु० मुर—क पृषो० द्वित्वम् । १ तुषाग्नौ २ कन्दर्पे सूर्य्याश्चे च मेदि० ।
शब्दकल्पद्रुमः
मुर्मुरः || पुं, तुषाग्निः ॥ (यथा, माघे । ६ । ६ । “स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः । निपतिताः परितः पथिकव्रजा- नुपरि ते परितेपुरतो भृशम् ॥”)
मन्मथः । रविवाजिः । इति मेदिनी । रे, २०५ ॥ (स्त्रियां टाप् । नदीभेदः । यथा, महाभारते । ३ । २२१ । २५ । “भारती सुप्रयोगा च कावेरी मुर्म्मुरा तथा । तुङ्गवेण्णा कृष्णवेण्णा कपिला शोण एव च ॥”)