शब्दकल्पद्रुमः
मुषलिका is an alternate of मुशलिका. मुश(ष)लिका || स्त्री (मुष + “वृषादिभ्यश्चित् ।” उणा० १ । १०८ । इति कलश्चित् स्यात् । टाप् । ततः संज्ञायां कन् । अकारस्येत्वम् ।)
पल्ली । तालमूली । तत्पर्य्यायः सुवहा २ तालपत्रिका ३ गोधापदी ४ हेमपुष्पी ५ भूताली ६ दीर्घ- कन्दिका ७ मुषली ८ तालिका ९ तालमूलिका १० । इति शब्दरत्नावली ॥ अर्शोघ्नी ११ । इति जटाधरः ॥ अस्या गुणाः । मधुरत्वम् । शीत- त्वम् । वृष्यत्वम् । पुष्टिबलप्रदत्वम् । पिच्छिल- त्वम् । कफदत्वम् । पित्तदाहश्रमहरत्वञ्च । “मुशली च द्विधा प्रोक्ता श्वेता चापर- संज्ञिका । श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥” इति राजनिर्घण्टः ॥ “तालमूली तु विद्वद्भिर्म्मुषली परिकीर्त्तिता । मुषली मधुरा वृष्या वीर्य्योष्णा बृंहणी गुरुः । तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा ॥” इति भावप्रकाशः ॥