वाचस्पत्यम्
मुष्टिबन्ध || पु० मुष्टेर्बन्धो यत्र । १ संग्रहे अमरः । ६ त० । २ मुष्टि- बन्धने ।
शब्दकल्पद्रुमः
मुष्टिबन्धः || पुं, मुष्टिबन्धनक्रिया । मुटावाँधा इति भाषा । तत्पर्य्यायः । संग्राहः २ । इत्यमरः । ३ । २ । १४ ॥ मुष्टेर्बन्धोऽङ्गुलिविन्यासो मुष्टि- बन्धः । मुष्टिना बन्धो दृढग्रहणं संग्राह इत्यपरे । मुष्ट्यामेव संग्रह इत्यन्ये । मुष्टिः स्त्रियाञ्च संग्रह इति वोपालितः । इति भरतः ॥