वाचस्पत्यम्
मुस is an alternate of मुषस. मुष(स)(श)स || पु० मुष—कलन् पृषो० । अयोग्रे स्वनामख्याते धान्यादिकण्डनसाधने पदार्थे अमरः ।
वाचस्पत्यम्
मुस || खण्डने दि० पर० सक० सेट् । मुस्यति इरित् अमुसत् आभोसीत् पुषादिरयमित्यन्ये ।
शब्दकल्पद्रुमः
मुस || य इर् छिदि । खण्डने । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् ।)
य मुस्यति विपक्षं चतुरः । इर् अमुसत् अमोसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥