संस्कृत-शब्दकोशः

मुस मुसलामुसलि

मुसल

शब्दकल्पद्रुमः

मुसलः || पुं, क्ली, (मुस्यति खण्डयतीति । मुस् + “वृषादिभ्यश्चित् ।” उणा० १ । १०८ । कलः चित् स्यात् ।)
स्वनामख्याततण्डुलादिकण्डनार्थनिर्म्मित- लौहाग्रयष्टिः । तत्पर्य्यायः । अयोऽग्रम् २ । इत्यमरः । २ । ९ । २५ ॥ मुषलम् ३ कण्डनी- दण्डः ४ । इति शब्दरत्नावली ॥ मुस्यति मुसल मुस यिर्छिदि नाम्नीति कलः । मुसलो दन्त्य- सकारः । एवं मुष्य इर्छिदीति मूर्द्धन्यान्तात् कलः मूर्द्ध्वन्यषकारश्च । इत्यमरटीकायां भरतः ॥ (आयुधविशेषः । तत्प्रकारो यथा, वैशम्पाय- नोक्तधनुर्वेदे । “मुसलस्त्वक्षिशीर्षाभ्यां करैः पादैर्विवर्ज्जितः । मूले चान्तेऽतिसम्बन्धः पातनं पोथनं द्वयम् ॥”)
यथा, मनौ । ८ । ३१५ । “स्कन्धेनादाय मुसलं लगुडं वापि स्वादिरम् । शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥”)



Correction: