वाचस्पत्यम्
मुसली is an alternate of मुशली. मुश(स)ली || स्त्री मुष मुस वा कसच् पृषो० षस्य शः गौरा० ङीष् । १ तालमूल्याम् २ गृहगोधिकायाम् राजनि० संज्ञायां कन् । वल्ल्याम् हका० ।
शब्दकल्पद्रुमः
मुसली || स्त्री (मुसल + गौरादित्वात् ङीष् ।)
तालमूलिका । गृहगोधिका । इत्यमरः । २ । ५ । १२ ।