संस्कृत-शब्दकोशः

मुसल्लह मुस्तक

मुस्त

वाचस्पत्यम्

मुस्त ||‍ पु० गुस्त अच् स्त्रीत्वे टाप् । मुस्तके (मुथा) हारा० तत्रार्थे स्त्री अमरः स्वार्थे क । अत्रैव अस्त्री० अमरः । स्थावरविषभेदे पु० हेमच० ।


वाचस्पत्यम्

मुस्त ||‍ संहतौ चु० उभ० सक० सेट् । मुस्तयति ते अमुमुस्तत् त ।


शब्दकल्पद्रुमः

मुस्त || क संहतौ । इति कविकल्पद्रुमः ॥ (चुरा०- उभ०-अकं-सेट् ।)
पवर्गशेषादिः । क मुस्त- यति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुस्तः || पुं, (मुस्तयति एकत्र संहतीभवन्तीति । मुस्त + कः । एकशिफायामस्य बहुमूलसम्बद्धतया तथात्वम् ।)
मुस्तकम् । इति हारावली ॥ (यथा बृहत्संहितायाम् । ७७ । ११ । “भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्ज्जभागौ नखगुग्गुलू च । कर्पूरबोधो मधुपिण्डितोऽयं कोपच्छदो नाम नरेन्द्रधूपः ॥”)



Correction: