मुह
मुहुभाषा
मुहिर
वाचस्पत्यम्
मुहिर || पु० मुह किरच् । १ कामे, २ मूर्खे च मेदि० ।
शब्दकल्पद्रुमः
मुहिरः || पुं, (मुह्यति ज्ञानरहितोभवत्यनेन लोकः मुह्यति सभायामिति वा । मुह + “इषिमदीति उणा० ।” १ । ५२ । इति किरच् ।)
कामः । मूर्खः । इति मेदिनी । र, । २०५ ॥ (असभ्यः इत्युज्ज्वलदत्तः ॥)